Sunday, April 29, 2007
परिणामे भयंकरः
कश्चन महारजः आसीत् सः कलारसिकः काव्यप्रियः च। कदाचित् मगधदेशात् कश्चन् कविः तस्य आस्थानम् आगतवान्। सः स्वस्य काव्यं श्रावयितुं महाराजस्य अनुमतिं प्रार्थितवान्। महराजः अनुमतिं दत्वान्। कविः काव्यं श्रावितवान्। वस्तुतः सः उत्तमः कविः। परन्तु तस्य एकः दुरभ्यासः आसीत्। कव्यश्रावणसमये पुनः पुनः सः करतलयोः कण्डूयनं करोति स्म। तदपि सः तावद्वारं करोति स्म यत् कव्यश्रोतारः तेन् जुगुप्साम् अनुभवेयुः। महाराजः तस्य कव्यम् श्रुत्वा एतं दुरभ्यासं च ज्ञात्वा तम् उक्तवान् -"भोः कविर्वय ! भवान् यदि चतुर्विंशतिघण्टाः यावत् निरन्तरं कव्यं श्रावयति तऱि अहं भवते पञ्चशतं ग्रमान् उपायनरूपेण ददामि। परन्तु काव्यवाचन समये भवता मध्ये कदापि कण्डूयनं न करणीयम्" इति। यद्यपि एतत् कष्टमिति जानाति स्म, तथापि कविः उपायनलोभेन अङीकृतवान्। काव्यवाचनम् आरब्धम्। बहवः सभासदः तत्र सम्मिलिताः आसन्। कविः अपि महता उत्साहेन एव कव्यं श्रावयन् आसीत्। परन्तु घण्टाभ्यन्तरे एव सः कण्डूयनं विना कव्यं श्रावयितुमेव शक्तः न जातः।अतः सः उपायेन वीररसपूर्णस्य काव्यस्य श्रावणव्याजेन हस्तसञ्चालनम् अधिकतया कुर्वन् करतलकण्डूयनं प्रारब्धवान् एव। परन्तु बुद्धिमान् महाराजः झटिति तत् ज्ञातवान्। सः कविं स्मारितवान् अपि। तदा कविः उक्तवान् -"महाराज ! क्षमां करोतु। अहम् कण्डूयनम् विना घण्टां यावत् अपि स्थातुं नैव शक्नोमि। अतः भवान् एवं करोतु। यदि अहम् एकवारम् कण्डूयनं करोमि, तऱि मह्यम् उपायनरूपेण दातव्येषु ग्रमेषु एकं ग्रामं न्यूनीकरोतु" इति। महाराजः तत् अङीकृतवान्। ततः कव्य- वाचनम् अनुवृत्तम्। परन्तु चतुर्विंशतिघण्टात्मकः कालः यदा समाप्तः तावता सः कविः तावद्वारं कण्डूयनं कृतवान् आसीत् यत् तेन् एकोपि ग्रामः उपायनरूपेण नैव प्राप्तः। वस्तुतः लौकिकविषयेषु आसक्तिः अपि तादृशी एव। सकृत् तत्र आसक्तिः जाता चेत् पुनः ततः मोक्षं प्राप्तुं अत्यन्तं कष्टं भवति। अतः सापि कण्डूतिः इव त्याज्या इति वदन्ति ज्ञानिनः। कण्डूतेः करणारम्भः परिणामे भयंकरः। तथा विषयभोगोऽपि जन्ममृत्युप्रदायकः।।
Subscribe to:
Post Comments (Atom)
1 comment:
can u please tell the meaning of this
Post a Comment