Sunday, April 29, 2007

अक्षुण्णः अधिकारः

महाराष्ट्रे गाडगेमहाराजः नाम कश्चन महापुरूषः आसीत् । जीर्णानि वस्त्राणि, एकं कम्बलम् , एकं मृत्तिकापात्रं च एतावदेव तस्य धनम् आसीत् । सः निरक्ष्ररः । किन्तु अनेकलक्ष्यरुप्यकाणि अन्येभ्यः दानरूपेण स्वीकृत्य तानि केवलं दरिद्राणां कल्याणायव्ययीकरोति स्म । एकस्यापि रुप्यकस्य दुर्विनियोगः तेन न कृतः । अतः जनानां ह्र्दयेषु सः परमपूज्यः सञ्जातः । बाबासाहेब-अम्बेडकरः अपि दीनानां विषये नितरां प्रीतिमान् असीत् । केन्द्रीयाभिवृद्धिमण्डलस्य सदस्यः सः एकद शासकीयकार्यार्थं मुम्बईनगरम् आगतवान् । शासकीये अतिथिगृहे वासं कृतवान् च । गाडगेमहाराजोऽपि तस्मिन् समये प्रसंङवशात् मुम्बईनगरम् आगतवान् आसीत् । परन्तु अकस्मात् सः तत्र ज्वरग्रस्तः जातः । तस्य शिष्यःमहानन्दस्वामी तम् अनुक्त्वा एव अम्बेडकरेण मिलित्वा गुरोः परिस्थितिं वर्णितवान् । गाडगेमहाराजम् अम्बेडकरः पूर्वमपि जानाति स्म ।यद्दपि सः तदा दिल्लीं प्रति गन्तुं सिद्धः आसीत् तथापि अविलम्बं गाडगेमहाराजं मेलितुं गतवान् । गाडगेवर्यः तत्र आगतम् अम्बेडकरम् अकथयत् -"उच्चाधिकारिणः भवतः एकैकोऽपि क्षणः अमूल्यः । भवान् किमर्थम् अत्र आगतवान् ?" इति । तदा अम्बेडकरः विनयेन् उक्तवान् -"महोदय ! मम् अधिकारः क्ष्णभङुरः । श्वः किं भविष्यति इति कोऽपि न जानाति । परं भवतः अधिकारः सेवया, निःस्वार्थभावनया च अर्जितः । सः अक्षुष्णः। अतः अहमेव अत्र आगतःअस्मि । भवान् अन्येभ्यः स्वस्य निमित्तं किमपि न स्वीकरोति इत्यतः अहम् एतत् कम्बलद्वयम् एव आनीतवान् । कृपया स्वीकरोतु " इति। गाडगेवर्यः अपि पण्ढरापुरे स्थापितां चोखलामेठ्ठा-नाम धर्मशालां अम्बेडकरस्य सेवाकार्यार्थं समर्पयितुं इष्टवान् । एतां घटनां द्र्ष्टवा तत्र स्थिताः सर्वे मूकविस्मिताः अभवन् ।

8 comments:

Goutam said...

Very interesting articles. But I am surprised you have not posted since April of this year. Why?
Please do continue writing/posting sanskrit articles.

दिवाकर मिश्र said...

गौतममहोदय ! मम ब्लॉगपृष्ठे केषाञ्चित् जनानां ब्लॉगसम्पर्काः दत्ताः सन्ति येषु संस्कृते हिन्दीभाषायां च लिखितं भवति । संस्कृतम् अस्माकं कार्यक्षेत्रं हिन्दी अस्माकं मातृभाषा । अत एव उभयथा वयं लिखामः । परं लेखने एतेषाम् प्रायः अधिकसक्रियाः न सन्ति ।
http://diwakarmishra.blogspot.com

दिवाकर मिश्र said...

प्रतिमायाः कृते । भवत्या ब्लॉगस्य सम्पर्कः अपि मम ब्लॉगपृष्ठे दत्तः अतः अधिकजनाः तत्र प्राप्तुं शक्नुवन्ति । नवलेखनम् अनुवर्तेत ।

Satish Chandra Satyarthi said...

आप लगता है ब्लॉग बनाकर भूल गयी हैं
लिखते रहा कीजिये

Loveleshanand said...

महोदय,
मैं संस्कृत सीख रहा हूँ। कृपया मुझे आप संस्कृत मैं आभ्यास कराने का
प्रयतन करेगे।
घन्यवाद
sloveleshanand@gmail.com

Loveleshanand said...

आपको संस्कृत अच्छी तरह आती है ।
sloveleshanand@gmail.com

MAHIMA said...

where can i find meaning of these stories?

MAHIMA said...

where can i find meaning of these stories?