Sunday, April 29, 2007

केतक्याः पतनम्

एकदा भगवतः विष्णोः ब्रह्मणः च मध्ये 'आवयोः कतरः श्रेष्टः?' इत्यस्मिन् विषये विवादः सञ्जातः। तदा भगवान शिवः ज्योतिरूपेण तत्र आविरभूत् तस्य्स् रूपस्य आदिः अन्त्यं वा न दृश्यते स्म। परं तत् सर्वत्र अपि व्याप्तम् आसीत्। अतः तादृश्यरूपस्य शिवस्य आदिः अन्त्यं वा अस्ति किम् इति संशयः भवति स्म्। ततः विष्णुः ब्रम्हा च निश्चयं कृतवन्तौ यत् 'यः शिवस्य एतादृशरूपस्य आदिम् अन्त्यं वा दृष्टुं शक्तः भवति सः एव श्रेष्ठः' इति। अतः उभौ अपि तत् दर्शनाय प्रस्थितौ। भगवान् विष्णुः सूकररूपेण गत्वा भूमौ शिवस्य पादौ अन्वेष्टुं प्रयत्नं कृतवान। परं सः महता प्रयत्नेन अपि तौ अन्वेष्टुं अशक्तः अभवत्। अन्ते च सः निरशः सन् प्रतिनवृत्तः। अत्रान्तरे चतुर्मुखः ब्रम्हा हंसरूपेण उपरि गत्वा शिवस्य शिरोभागम् अन्वेष्टुं प्रयत्नम् कृतवान्। किन्तु सः उपर्युपरि गत्वा अपि शिवस्य शिरः द्रष्टुम् असमर्थः जातः। सोऽपि निराशतया ततः प्रतिनिवर्तमानः आसीत्। तत् समये सः मार्गे केतकीं दृष्टवान्। सा भूमिं प्रति आगच्छ्न्तीं आसीत्। तया सह मिलित्वा ब्रम्हा एकां योजनां चन्तितवान् । ततः तौ मिलित्वा विष्णोः समीपम् आगतवन्तौ। ब्रम्हा विष्णुम् उक्त्वान् - "भगवन् मया तस्य ज्योतिरूपस्य आरम्भः दृष्टः। अत्र केतकी एव प्रमाणम् " इति। परन्तु विष्णुः तस्य वचने न विश्वसितवान्। सः केतकीमेव पृष्टवान् - "ब्रम्हा यत् उक्तवान् तत् सत्यम् किम्?" इति। तदा केतकी - "सत्यमेव.. " इति प्रत्यवदत्। केतक्याः असत्यवचनेन् शिवः कुपितः अभवत्। सः उग्रदृष्टया ताम् अपश्यत्। ततः तां शप्तवान् अपि यत् "इतः परम् मम् पूजायां तव उपयोगः न भविष्यति" इति। अतः एव तदा प्रभृति शिवस्य पूजार्थं केतकी नोपयुज्यते।

2 comments:

दिवाकर मिश्र said...

एतादृशीः पौराणिकाः कथाः सरलभाषायां लेखितव्याः यस्मात संस्कृत रुचिकरं सरलं च भवेत्

Raghavendra said...

Hi,

This is a good blog. Please continue.
Can you please tell me where can I get panchatantra stories and other sanskrit related stories in net?